|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.55. अध्यायः 055
Mahabharata - Adi Parva - Chapter Topics
आस्तीककृता जनमेजययज्ञप्रशंसा॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
आस्तीक उवाच। 1-55-0x(265)(2242)
सोमस्य यज्ञो वरुणस्य यज्ञः
प्रजापतेर्यज्ञ आसीत्प्रयागे।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-1(2243)
शक्रस्य यज्ञः शतसङ्ख्य उक्त-
स्तथापरं तुल्यसङ्ख्यं शतं वै।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-2(2244)
यमस्य यज्ञो हरिमेधसश्च
यथा यज्ञो रन्तिदेवस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-3(2245)
गयस्य यज्ञः शशबिन्दोश्च राज्ञो
यज्ञसल्तथा वैश्रवणस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-4(2246)
नृगस्य यज्ञस्त्वजमीढस्य चासी-
द्यथा यज्ञो दाशरथेश्च राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-5(2247)
यज्ञः श्रुतो दिवि देवस्य सूनो-
र्युधिष्ठिरस्याजमीढस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-6(2248)
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य
स्वयं च कर्म प्रचकार यत्र।
तथा यज्ञोऽयं तव भारताग्र्य
पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-7(2249)
इमे च ते सूर्यसमानवर्चसः
समासते वृत्रहणः क्रतुं यथा।
नैषां ज्ञातुं विद्यते ज्ञानमद्य
दत्तं येभ्यो न प्रणश्येत्कदाचित्॥ 1-55-8(2250)
ऋत्विक्समो नास्ति लोकेषु चैव
द्वैपायनेनेति विनिश्चितं मे।
एतस्य शिष्या हि क्षितिं संचरन्ति
सर्वर्त्विजः कर्मसु स्वेषु दक्षाः॥ 1-55-9(2251)
विभावसुश्चित्रभानुर्महात्मा
हिरण्यरेता हुतभुक्कृष्णवर्त्मा।
प्रदक्षिमावर्तशिखः प्रदीप्तो
हव्यं तवेदं हुतभुग्वष्टि देवः॥ 1-55-10(2252)
नैह त्वदन्यो विद्यते जीवलोके
समो नृपः पालयिता प्रजानाम्।
धृत्या च ते प्रतीमनाः सदाहं
त्वं वा वरुणो धर्मराजो यमो वा॥ 1-55-11(2253)
शक्रः साक्षाद्वज्रपाणिर्यथेह
त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्।
मतस्त्वं नः पुरुषेन्द्रेह लोके
न च त्वदन्यो भूपतिरस्ति जज्ञे॥ 1-55-12(2254)
खट्वाङ्गनाभगदिलीपकल्प
ययातिमान्धातृसमप्रभाव।
आदित्यतेजःप्रतिमानतेजा
भीष्मो यथा राजसि सुव्रतस्त्वम्॥ 1-55-13(2255)
वाल्मीकिवत्ते निभृतं स्ववीर्यं
वसिष्ठवत्ते नियतश्च कोपः।
प्रभुत्वमिन्द्रत्वसमं मतं मे
द्युतिश्च नारायणवद्विभाति॥ 1-55-14(2256)
यमो यथा धर्मविनिश्चयज्ञः
कृष्णो यथा सर्वगुणोपपन्नः।
श्रियां निवासोऽसि यथा वसूनां
निधानभूतोऽसि तथा क्रतूनाम्॥ 1-55-15(2257)
दम्भोद्भवेनासि समो बलेन
रामो यथा शस्त्रविदस्त्रविच्च।
और्वत्रिताभ्यामसि तुल्यतेजा
दुष्प्रेक्षणीयोऽसि भगीरथेन॥ 1-55-16(2258)
सौतिरुवाच। 1-55-17x(266)
एवं स्तुताः सर्व एव प्रसन्ना
राजा सदस्या ऋत्विजो हव्यवाहः।
तेषां दृष्ट्वा भावितानीङ्गितानि
प्रोवाच राजा जनमेजयोऽथ॥ ॥ 1-55-17(2259)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-55-6 देवस्य धर्मराजस्य॥ 1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः॥ 1-55-10 अग्निं स्तौति विभावसुरिति। वष्टि कामयते॥ 1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि॥ 1-55-14 निभृतं गुप्तं। नियतो निगृहीतः॥ 1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम्॥ 1-55-16 रामो भार्गवः और्वत्रितावृषी॥ 1-55-17 भावितानि मनसि संकल्पितानि। भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात्॥ पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|